Sukta 10.124
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् । अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥
बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् । अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥
bībhatsū́nāṃ sayújaṃ haṃsám āhur apā́ṃ divyā́nāṃ sákhye cárantam | anuṣṭúbham ánu carcū́ryamāṇam índraṃ ní cikyuḥ kaváyo manīṣā́ ||
They call him the Swan, united with the shunning powers, moving in friendship with the heavenly waters. Following the Anuṣṭubh, following the rhythm that is being set in motion, the seers by inspired thought recognized Indra.
बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् । अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥बीभत्सूनाम् । सयुजम् । हंसम् । आहुः । अपाम् । दिव्यानाम् । सख्ये । चरन्तम् । अनुस्तुभम् । अनु । चर्चूर्यमाणम् । इन्द्रम् । नि । चिक्युः । कवयः । मनीषा ॥bībhatsūnām | sa-yujam | haṃsam | āhuḥ | apām | divyānām | sakhye | carantam | anu-stubham | anu | carcūryamāṇam | indram | ni | cikyuḥ | kavayaḥ | manīṣā