Sukta 10.124
इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् । हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥
इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् । हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥
idáṃ svàr idám idā́sa vāmám ayáṃ prakāśá urú antárikṣam | hanā́va vṛtráṃ nir-éhi soma havíṣ ṭvā sántam havíṣā yajāma ||
This is the Light; this indeed is the desirable good; this is the wide mid-world of clear shining. We shall smite Vṛtra—come forth, O Soma; you who are present as the offering, with the offering we sacrifice to you.
इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् । हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥इदम् । स्वः । इदम् । इत् । आस । वामम् । अयम् । प्रकाशः । उरु । अन्तरिक्षम् । हनाव । वृत्रम् । निःएहि । सोम । हविः । त्वा । सन्तम् । हविषा । यजाम ॥idam | svaḥ | idam | it | āsa | vāmam | ayam | pra-kāśaḥ | uru | antarikṣam | hanāva | vṛtram | niḥ-ehi | soma | haviḥ | tvā | santam | haviṣā | yajāma