Sukta 10.124
निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे । ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥
निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से । ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥
nirmā́yā u tyé ásurā abhūvant tváṃ ca mā varuṇa kāmáyāse | ṛténa rā́jann ánṛtaṃ viviñcán máma rāṣṭrásyādhipátyam éhi ||
Those Asuras became devoid of true power; and you too, O Varuṇa, desire me. O King, by Ṛta sifting out the untrue, come to the overlordship of my inner kingdom.
निःऽमा॑याः । ऊँ॒ इति॑ । त्ये । असु॑राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया॑से । ऋ॒तेन॑ । रा॒ज॒न् । अनृ॑तम् । वि॒ऽवि॒ञ्चन् । मम॑ । रा॒ष्ट्रस्य॑ । अधि॑ऽपत्यम् । आ । इ॒हि॒ ॥निःमायाः । ऊँ इति । त्ये । असुराः । अभूवन् । त्वम् । च । मा । वरुण । कामयासे । ऋतेन । राजन् । अनृतम् । विविञ्चन् । मम । राष्ट्रस्य । अधिपत्यम् । आ । इहि ॥niḥ-māyāḥ | oṃ iti | tye | asurāḥ | abhūvan | tvam | ca | mā | varuṇa | kāmayāse | ṛtena | rājan | anṛtam | vi-viñcan | mama | rāṣṭrasya | adhi-patyam | ā | ihi