Sukta 10.122
त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः । त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे ॥
त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः । त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ॥
tvā́m id asyā́ uṣáso vyùṣṭiṣu dūtáṃ kṛṇvānā́ ayajanta mā́nuṣāḥ | tvā́ṃ devā́ mahayā́yyāya vāvṛdhur ā́jyaṃ agne nimṛjántaḥ adhvaré ||
Indeed you, in the dawns of this world, men have worshipped, making you their messenger. You the gods increased for a great forward movement, O Agni, anointing you with ghee in the unbroken rite.
त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः । त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥त्वाम् । इत् । अस्याः । उषसः । विउष्टिषु । दूतम् । कृण्वानाः । अयजन्त । मानुषाः । त्वाम् । देवाः । महयाय्याय । ववृधुः । आज्यम् । अग्ने । निमृजन्तः । अध्वरे ॥tvām | it | asyāḥ | uṣasaḥ | vi-uṣṭiṣu | dūtam | kṛṇvānāḥ | ayajanta | mānuṣāḥ | tvām | devāḥ | mahayāyyāya | vavṛdhuḥ | ājyam | agne | ni-mṛjantaḥ | adhvare