Sukta 10.122
त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥
त्वं दू॒तः प्र॑थ॒मो वरे॑ण्य॒: स हू॒यमा॑नो अ॒मृता॑य मत्स्व । त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥
tváṃ dūtáḥ prathamó váreṇyaḥ sá hū́yamāno amṛ́tāya matsva | tvā́ṃ marjayan marúto dāśúṣo gṛhé tvā́ṃ stómebhir bhṛ́gavo ví rurucuḥ ||
You are the first messenger, worthy of choice; when called, take delight for immortality. The Maruts purify you in the house of the giver; the Bhṛgus make you blaze forth by hymns.
त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ । त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रि॒रु॒चुः॒ ॥त्वम् । दूतः । प्रथमः । वरेण्यः । सः । हूयमानः । अमृताय । मत्स्व । त्वाम् । मर्जयन् । मरुतः । दाशुषः । गृहे । त्वाम् । स्तोमेभिः । भृगवः । वि । रिरुचुः ॥tvam | dūtaḥ | prathamaḥ | vareṇyaḥ | saḥ | hūyamānaḥ | amṛtāya | matsva | tvām | marjayan | marutaḥ | dāśuṣaḥ | gṛhe | tvām | stomebhiḥ | bhṛgavaḥ | vi | rirucuḥ