Sukta 10.122
यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् । शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥
yajñásya ketúṃ prathamáṃ puróhitaṃ havíṣmanta īḷate saptá vā́jinam | śṛṇvántam agníṃ ghṛtá-pṛṣṭham ukṣáṇaṃ pṛṇántaṃ deváṃ pṛṇáte su-vī́ryam ||
The offerers adore Agni, the first sign and leader of the sacrifice, set in front—the sevenfold winner of plenitude. Hearing us, Agni, with a back of ghee, the strong Bull, the god who fills; he fills the seeker with noble hero-force.
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् । शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥यज्ञस्य । केतुम् । प्रथमम् । पुरःहितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् । शृण्वन्तम् । अग्निम् । घृतपृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सुवीर्यम् ॥yajñasya | ketum | prathamam | puraḥ-hitam | haviṣmantaḥ | īḷate | sapta | vājinam | śṛṇvantam | agnim | ghṛta-pṛṣṭham | ukṣaṇam | pṛṇantam | devam | pṛṇate | su-vīryam