Sukta 10.121
यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् । यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
yáś cid ā́po mahínā paryápaśyad dákṣaṃ dádhānā janáyantīr yajñám | yó devéṣv ádhi devá éka āsīt kásmai devā́ya havíṣā vidhema ||
He who, by his greatness, beheld the Waters all around as they held the creative skill and brought forth the sacrifice. He who was the one God above the gods: to which God shall we offer the oblation of our will?
यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् । यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥यः । चित् । आपः । महिना । परिअपश्यत् । दक्षम् । दधानाः । जनयन्तीः । यज्ञम् । यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम ॥yaḥ | cit | āpaḥ | mahinā | pari-apaśyat | dakṣam | dadhānāḥ | janayantīḥ | yajñam | yaḥ | deveṣu | adhi | devaḥ | ekaḥ | āsīt | kasmai | devāya | haviṣā | vidhema