Sukta 10.121
आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् । ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ā́po ha yád bṛhatī́r víśvam ā́yan gárbhaṃ dádhānā janáyantīr agním | tátó devā́nāṃ sám avartatā́sur ékaḥ kásmai devā́ya havíṣā vidhema ||
When the mighty Waters came bearing all the world, holding the embryo, bringing forth Agni—then from them the one Breath of the gods came into full movement: to which God shall we offer the oblation of our will?
आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् । ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥आपः । ह । यत् । बृहतीः । विश्वम् । आयन् । गर्भम् । दधानाः । जनयन्तीः । अग्निम् । ततः । देवानाम् । सम् । अवर्तत । असुः । एकः । कस्मै । देवाय । हविषा । विधेम ॥āpaḥ | ha | yat | bṛhatīḥ | viśvam | āyan | garbham | dadhānāḥ | janayantīḥ | agn im | tataḥ | devānām | sam | avartata | asuḥ | ekaḥ | kasmai | devāya | haviṣā | vidhema