Sukta 10.121
मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
mā nó hiṃsīj janitā́ yaḥ pṛthivyā́ yó vā diváṃ satyádharmā jajā́na | yaś cā́paś candrā́ bṛhatī́r jajā́na kásmai devā́ya havíṣā vidhema ||
May He not harm us—He, the Father who brought forth the Earth, and who, established in the law of Truth, engendered the Heaven; who also brought forth the Waters—luminous and vast. To which God shall we offer the oblation?
मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ । यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥मा । नः । हिंसीत् । जनिता । यः । पृथिव्याः । यः । वा । दिवम् । सत्यधर्मा । जजान । यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम ॥mā | naḥ | hiṃsīt | janitā | yaḥ | pṛthivyāḥ | yaḥ | vā | divam | satya-dharmā | jajāna | yaḥ | ca | apaḥ | candrāḥ | bṛhatīḥ | jajāna | kasmai | devāya | haviṣā | vidhema