Sukta 10.121
यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
yáṃ krándasī avásā tastabhāné abhyáikṣetāṃ mánasā réjamāne | yátrā́dhi sū́ra údíto vibhā́ti kásmai devā́ya havíṣā vidhema ||
Whom the two worlds, upheld by his help, looked upon—trembling in mind; in whom and upon whom the Sun, when risen, shines forth: to which God shall we offer the oblation of our will?
यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने । यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥यम् । क्रन्दसी इति । अवसा । तस्तभाने इति । अभि । ऐक्षेताम् । मनसा । रेजमाने । यत्र । अधि । सूरः । उत्इतः । विभाति । कस्मै । देवाय । हविषा । विधेम ॥yam | krandasī iti | avasā | tastabhāne iti | abhi | aikṣetām | manasā | rejamāne | yatra | adhi | sūraḥ | ut-itaḥ | vi-bhāti | kasmai | devāya | haviṣā | vidhema