Sukta 10.121
येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्व॑ स्तभि॒तं येन॒ नाक॑: । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
yéna dyáur ugrā́ pṛthivī́ ca dṛḷhā́ yénā́ svar stabhitáṃ yénā́ nā́kaḥ | yó antárikṣe rájaso vimānáḥ kásmai devā́ya havíṣā vidhema ||
By whom the mighty heaven and the firm earth were made stable; by whom the luminous world was propped and the summit established; who in the mid-region measured out the spaces: to which God shall we offer the oblation of our will?
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्वरिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ । यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥येन । द्यौः । उग्रा । पृथिवी । च । दृळ्हा । येन । स्वरिति स्वः । स्तभितम् । येन । नाकः । यः । अन्तरिक्षे । रजसः । विमानः । कस्मै । देवाय । हविषा । विधेम ॥yena | dyauḥ | ugrā | pṛthivī | ca | dṛḷhā | yena | svar iti svaḥ | stabhitam | yena | nākaḥ | yaḥ | antarikṣe | rajasaḥ | vi-mānaḥ | kasmai | devāya | haviṣā | vidhema