Sukta 10.121
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
yásyemé himávanto mahitvā́ yásya samudráṃ rasáyā sahā́huḥ | yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema ||
Whose greatness these snow-peaks are, whose is the ocean with the flowing sap of waters; whose are these directions as his arms: to which God shall we offer the oblation of our will?
यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः॒ । यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥यस्य । इमे । हिमवन्तः । महित्वा । यस्य । समुद्रम् । रसया । सह । आहुः । यस्य । इमाः । प्रदिशः । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥yasya | ime | hima-vantaḥ | mahi-tvā | yasya | samudram | rasayā | saha | āhuḥ | yasya | imāḥ | pra-diśaḥ | yasya | bāhū iti | kasmai | devāya | haviṣā | vidhema