Sukta 10.121
यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
yáḥ prāṇató nímīṣato mahitvā́ika íd rājā́ jágato babhū́va | yá ī́śe asyá dvípadaś cátuṣpadaḥ kásmai devā́ya havíṣā vidhema ||
He who by his greatness became the one King of all that moves and breathes and blinks; who rules over this two-footed and four-footed world: to which God shall we offer the oblation of our will?
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ । यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥यः । प्राणतः । निमिषतः । महित्वा । एकः । इत् । राजा । जगतः । बभूव । यः । ईशे । अस्य । द्विपदः । चतुःपदः । कस्मै । देवाय । हविषा । विधेम ॥yaḥ | prāṇataḥ | ni-miṣataḥ | mahi-tvā | ekaḥ | it | rājā | jagataḥ | babhūva | yaḥ | īśe | asya | dvi-padaḥ | catuḥ-padaḥ | kasmai | devāya | haviṣā | vidhema