Sukta 10.121
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
yá ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ | yásya chāyā́m ṛtáṃ yásya mṛtyúḥ kásmai devā́ya havíṣā vidhema ||
He who gives the self and gives the strength, whose command all beings attend, whom even the gods follow in obedience; whose shadow is the Truth-Order and whose shadow is Death: to which God shall we offer the oblation of our will?
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः । यस्य॑ । छा॒याम् । ऋत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥यः । आत्मदाः । बलदाः । यस्य । विश्वे । उपआसते । प्रशिषम् । यस्य । देवाः । यस्य । छायाम् । ऋतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥yaḥ | ātma-dāḥ | bala-dāḥ | yasya | viśve | upa-āsate | pra-śiṣam | yasya | devāḥ | yasya | chāyām | ṛtam | yasya | mṛtyuḥ | kasmai | devāya | haviṣā | vidhema