Sukta 10.121
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
hiraṇyágarbhaḥ sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt | sá dādhāra pṛthivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidhema ||
The Golden Embryo came into movement in the beginning; born as the one Lord of all becoming. He bore the earth and this heaven: to which God shall we offer the oblation of our will?
हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् । सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥हिरण्यगर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् । सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥hiraṇya-garbhaḥ | sam | avartata | agre | bhūtasya | jātaḥ | patiḥ | ekaḥ | āsīt | saḥ | dādhāra | pṛthivīm | dyām | uta | imām | kasmai | devāya | haviṣā | vidhema