Sukta 10.120
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः । म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
imā́ brahmá bṛháddivo vivaktī́ndrāya śūṣám agriyáḥ svàrṣāḥ | mahó gótrasya kṣayati svàrājo dúraś ca víśvā avṛṇod ápa svā́ḥ ||
These mantras of the Vast Heaven distinguish and deliver the ardent force to Indra, the foremost winner of the luminous worlds. The self-ruling One settles in the mighty home of the hidden Light; he has opened all the doors and removed what was his own obstruction.
इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः । म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥इमा । ब्रह्म । बृहत्दिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वःसाः । महः । गोत्रस्य । क्षयति । स्वराजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥imā | brahma | bṛhat-divaḥ | vivakti | indrāya | śūṣam | agriyaḥ | svaḥ-sāḥ | mahaḥ | gotrasya | kṣayati | sva-rājaḥ | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ