Sukta 10.120
नि तद्दधिषेऽवरं परं च यस्मिन्नाविथावसा दुरोणे । आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥
नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे । आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥
ní tád dadhíṣe ’váraṃ páraṃ ca yásminn ā́vithā́vasā duroṇé | ā́ mā́tarā sthāpayase jigatnū́ áta inóṣi kárvarā purū́ṇi ||
You set that down—both the lower and the higher—in the house where you help by your protection. You establish the two Mothers, moving to their goal; from there you drive out many darkenings.
नि । तत् । द॒धि॒षे॒ । अव॑रम् । पर॑म् । च॒ । यस्मि॑न् । आवि॒थ । अव॑सा । दु॒रो॒णे । आ । मा॒तरा॑ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति॑ । अतः॑ । इ॒नो॒षि॒ । कर्व॑रा । पु॒रूणि॑ ॥नि । तत् । दधिषे । अवरम् । परम् । च । यस्मिन् । आविथ । अवसा । दुरोणे । आ । मातरा । स्थापयसे । जिगत्नू इति । अतः । इनोषि । कर्वरा । पुरूणि ॥ni | tat | dadhiṣe | avaram | param | ca | yasmin | āvitha | avasā | duroṇe | ā | mātarā | sthāpayase | jigatnū iti | ataḥ | inoṣi | karvarā | purūṇi