Sukta 10.120
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिन्द्र॑मे॒व । स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय॑न्ति च ॥
evā́ mahā́n bṛháddivo athárvā́vocāt svā́ṃ tanvàm índram evá | svásāro mātaríbhvarīr ariprā́ hinvánti ca śávasā vardháyanti ca ||
Thus Atharvan, the Vast Heaven, has spoken Indra himself as his own body. The sister-powers, the all-pervading mothers, flawless, drive him forward and by force increase him.
ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व । स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति च ॥एव । महान् । बृहत्दिवः । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारः । मातरिभ्वरीः । अरिप्राः । हिन्वन्ति । च । शवसा । वर्धयन्ति च ॥eva | mahān | bṛhat-divaḥ | atharvā | avocat | svām | tanvam | indram | eva | svasāraḥ | mātaribhvarīḥ | ariprāḥ | hinvanti | ca | śavasā | vardhayanti ca