Sukta 10.120
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥
त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑ । चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भि॒: सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥
tváyā vayáṃ śā́śadmahe ráṇeṣu prá-paśyanto yudhényāni bhū́ri | codáyāmi ta ā́yudhā vácobhiḥ sáṃ te śiśāmi bráhmaṇā vayā́ṃsi ||
With you we prevail in the battles, seeing ahead the many things that must be fought. I urge your weapons with my words; with the power of the mantra I sharpen your onrushes.
त्वया॑ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे॑षु । प्र॒ऽपश्य॑न्तः । यु॒धेन्या॑नि । भूरि॑ । चो॒दया॑मि । ते॒ । आयु॑धा । वचः॑ऽभिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म॑णा । वयां॑सि ॥त्वया । वयम् । शाशद्महे । रणेषु । प्रपश्यन्तः । युधेन्यानि । भूरि । चोदयामि । ते । आयुधा । वचःभिः । सम् । ते । शिशामि । ब्रह्मणा । वयांसि ॥tvayā | vayam | śāśadmahe | raṇeṣu | pra-paśyantaḥ | yudhenyāni | bhūri | codayāmi | te | āyudhā | vacaḥ-bhiḥ | sam | te | śiśāmi | brahmaṇā | vayāṃsi