Sukta 10.120
इति चिद्धि त्वा धना जयन्तं मदेमदे अनुमदन्ति विप्राः । ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः ॥
इति॑ चि॒द्धि त्वा॒ धना॒ जय॑न्तं॒ मदे॑मदे अनु॒मद॑न्ति॒ विप्रा॑: । ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवा॑: ॥
íti cid dhí tvā dhánā jáyantaṃ máde-made anumádanti víprāḥ | ójīyo dhṛ́ṣṇo sthirám ā́ tanuṣva mā́ tvā dabhan yātu-dhānā́ durévāḥ ||
Even so, indeed, the seers acclaim you, winning the riches in each rapture after rapture. O stronger one, O bold, stretch out a firm protection; let not the hostile sorcerers of evil intent deceive you.
इति॑ । चि॒त् । हि । त्वा॒ । धना॑ । जय॑न्तम् । मदे॑ऽमदे । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । ओजी॑यः । धृ॒ष्णो॒ इति॑ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । दुः॒ऽएवाः॑ ॥इति । चित् । हि । त्वा । धना । जयन्तम् । मदेमदे । अनुमदन्ति । विप्राः । ओजीयः । धृष्णो इति । स्थिरम् । आ । तनुष्व । मा । त्वा । दभन् । यातुधानाः । दुःएवाः ॥iti | cit | hi | tvā | dhanā | jayantam | made--made | anu-madanti | viprāḥ | ojīyaḥ | dhṛṣṇo iti | sthiram | ā | tanuṣva | mā | tvā | dabhan | yātu-dhānāḥ | duḥ-evāḥ