Sukta 10.120
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमा॑: । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
tvé kratúm ápi vṛñjanti víśve dvír yád eté trír bhávanty ū́māḥ | svādóḥ svā́dīyaḥ svā́dunā sṛjā́ sámadaḥ su mádhu mádhunā́bhi yodhīḥ ||
In you all gather their will and discernment, when these vital energies become double and triple. Sweeter than the sweet, by sweetness create; in union of ecstasy, join honey with honey and fight through with it.
त्वे इति॑ । क्रतु॑म् । अपि॑ । वृ॒ञ्ज॒न्ति॒ । विश्वे॑ । द्विः । यत् । ए॒ते । त्रिः । भव॑न्ति । ऊमाः॑ । स्वा॒दोः । स्वादी॑यः । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒दः । सु । मधु॑ । मधु॑ना । अ॒भि । यो॒धीः॒ ॥त्वे इति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः ॥tve iti | kratum | api | vṛñjanti | viśve | dviḥ | yat | ete | triḥ | bhavanti | ūmāḥ | svādoḥ | svādīyaḥ | svādunā | sṛja | sam | adaḥ | su | madhu | madhunā | abhi | yodhīḥ