Sukta 10.120
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥
वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जा॒: शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति । अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ॥
vāvṛdhānó śávasā bhū́ry-ojāḥ śátrur dāsā́ya bhiyásaṃ dadhāti | ávy-anac ca vy-anac ca sásni sáṃ te navanta prá-bhṛtā mádeṣu ||
Growing by strength, abundant in power, he lays fear upon the hostile Dāsa. He bends what is unbent and what is bent; in the carried-forward ecstasies they bow to you in the raptures.
व॒वृ॒धा॒नः । शव॑सा । भूरि॑ऽओजाः । शत्रुः॑ । दा॒साय॑ । भि॒यस॑म् । द॒धा॒ति॒ । अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सस्नि॑ । सम् । ते॒ । न॒व॒न्त॒ । प्रऽभृ॑ता । मदे॑षु ॥ववृधानः । शवसा । भूरिओजाः । शत्रुः । दासाय । भियसम् । दधाति । अविअनत् । च । विअनत् । च । सस्नि । सम् । ते । नवन्त । प्रभृता । मदेषु ॥vavṛdhānaḥ | śavasā | bhūri-ojāḥ | śatruḥ | dāsāya | bhiyasam | dadhāti | avi-anat | ca | vi-anat | ca | sasni | sam | te | navanta | pra-bhṛtā | madeṣu