Sukta 10.119
अभि द्यां महिना भुवमभीमां पृथिवीं महीम् । कुवित्सोमस्यापामिति ॥
अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीम् । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
abhí dyā́ṃ mahinā́ bhúvam abhí imā́ṃ pṛthivī́ṃ mahī́m | kuvít sómasyāpā́m ití ||
By greatness I have overtopped Heaven; by greatness I have overtopped this vast Earth. Perhaps it is from the Soma’s waters that this magnified being arises.
अ॒भि । द्याम् । म॒हि॒ना । भु॒व॒म् । अ॒भि । इ॒माम् । पृ॒थि॒वीम् । म॒हीम् । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥अभि । द्याम् । महिना । भुवम् । अभि । इमाम् । पृथिवीम् । महीम् । कुवित् । सोमस्य । अपाम् । इति ॥abhi | dyām | mahinā | bhuvam | abhi | imām | pṛthivīm | mahīm | kuvit | somasya | apām | iti