Sukta 10.119
नहि मे रोदसी उभे अन्यं पक्षं चन प्रति । कुवित्सोमस्यापामिति ॥
न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
náhi me ródasī ubhé anyáṃ pákṣaṃ caná práti | kuvít sómasyāpā́m ití ||
Not even both Heaven and Earth stand against me as an opposite wing. Perhaps it is from the Soma’s waters that this vast equality with the worlds is born.
न॒हि । मे॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒न्यम् । प॒क्षम् । च॒न । प्रति॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥नहि । मे । रोदसी इति । उभे इति । अन्यम् । पक्षम् । चन । प्रति । कुवित् । सोमस्य । अपाम् । इति ॥nahi | me | rodasī iti | ubhe iti | anyam | pakṣam | cana | prati | kuvit | somasya | apām | iti