Sukta 10.119
उन्मा पीता अयंसत रथमश्वा इवाशवः । कुवित्सोमस्यापामिति ॥
उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शव॑: । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
út mā pītā́ ayaṃsata rátham aśvā́ iva āśávaḥ | kuvít sómasyāpā́m ití ||
The draughts I have drunk have lifted me up, as swift horses lift the chariot. Perhaps it is from the Soma’s waters that this mounting power is born.
उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ॑म् । अश्वाः॑ऽइव । आ॒शवः॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥उत् । मा । पीताः । अयंसत । रथम् । अश्वाःइव । आशवः । कुवित् । सोमस्य । अपाम् । इति ॥ut | mā | pītāḥ | ayaṃsata | ratham | aśvāḥ-iva | āśavaḥ | kuvit | somasya | apām | iti