Sukta 10.119
प्र वाता इव दोधत उन्मा पीता अयंसत । कुवित्सोमस्यापामिति ॥
प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
prá vātā́ iva dódhata út mā pītā́ ayaṃsata | kuvít sómasyāpā́m ití ||
Like winds surging forward, they have shaken me; the draughts I have drunk have lifted me upward. Perhaps it is from the Soma’s waters that this exaltation comes.
प्र । वाताः॑ऽइव । दोध॑तः । उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥प्र । वाताःइव । दोधतः । उत् । मा । पीताः । अयंसत । कुवित् । सोमस्य । अपाम् । इति ॥pra | vātāḥ-iva | dodhataḥ | ut | mā | pītāḥ | ayaṃsata | kuvit | somasya | apām | iti