Sukta 10.118
उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । यत्त्वा स्रुचः समस्थिरन् ॥
उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे । यत्त्वा॒ स्रुच॑: स॒मस्थि॑रन् ॥
úttiṣṭhasi svā́huto ghṛtā́ni práti modase | yát tvā́ srúcaḥ samásthiran ||
You rise up, well-called, and you take delight in the streams of clarified force; for the ladles have set you firmly in your place—fixed in the right poise of the offering.
उत् । ति॒ष्ठ॒सि॒ । सुऽआ॑हुतः । घृ॒तानि॑ । प्रति॑ । मो॒द॒से॒ । यत् । त्वा॒ । स्रुचः॑ । स॒म्ऽअस्थि॑रन् ॥उत् । तिष्ठसि । सुआहुतः । घृतानि । प्रति । मोदसे । यत् । त्वा । स्रुचः । सम्अस्थिरन् ॥ut | tiṣṭhasi | su-āhutaḥ | ghṛtāni | prati | modase | yat | tvā | srucaḥ | sam-asthiran