Sukta 10.118
स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा । स्रुचा प्रतीकमज्यते ॥
स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा । स्रु॒चा प्रती॑कमज्यते ॥
sá āhúto ví rocate ’gnír īḷényo girā́ | srucā́ pratī́kam ajyate ||
When he is invoked, Agni shines out widely, the adorable one, by the mantra-voice; with the ladle his front is anointed—his manifest face made ready for the work.
सः । आऽहु॑तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा । स्रु॒चा । प्रती॑कम् । अ॒ज्य॒ते॒ ॥सः । आहुतः । वि । रोचते । अग्निः । ईळेन्यः । गिरा । स्रुचा । प्रतीकम् । अज्यते ॥saḥ | āhutaḥ | vi | rocate | agniḥ | īḷenyaḥ | girā | srucā | pratīkam | ajyate