Sukta 10.117
पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥
पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् । ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठन्त॒ राय॑: ॥
pṛṇīyā́d in nā́dhamānāya távyān drā́ghīyāṃsam ánu paśyeta pánthām | ó hí vártante rathyéva cakrā́ anyám-anyam úpa tiṣṭhanta rā́yaḥ ||
Let him fill the one who is in want; let him look along the farther and wider path. For riches move and return like wheels on a road; they come and take their stand now with one, now with another.
पृ॒णी॒यात् । इत् । नाध॑मानाय । तव्या॑न् । द्राघी॑यांसम् । अनु॑ । प॒श्ये॒त॒ । पन्था॑म् । ओ इति॑ । हि । व॒र्त॒न्ते॒ । रथ्या॑ऽइव । च॒क्रा । अ॒न्यम्ऽअ॑न्यम् । उप॑ । ति॒ष्ठ॒न्त॒ । रायः॑ ॥पृणीयात् । इत् । नाधमानाय । तव्यान् । द्राघीयांसम् । अनु । पश्येत । पन्थाम् । ओ इति । हि । वर्तन्ते । रथ्याइव । चक्रा । अन्यम्अन्यम् । उप । तिष्ठन्त । रायः ॥pṛṇīyāt | it | nādhamānāya | tavyān | drāghīyāṃsam | anu | paśyeta | panthām | o iti | hi | vartante | rathyāiva | cakrā | anyam-anyam | upa | tiṣṭhanta | rāyaḥ