Sukta 10.117
न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥
न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः । अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥
ná sá sákhā yó ná dadāti sákhye sacā́bhuve sácamānāya pitváḥ | ápāsmā́t préyān ná tád óko asti pṛṇántaṃ anyám áraṇaṃ cid icchet ||
He is no friend who does not give in friendship to the companion who comes seeking nourishment. One should go away from him; that is no true dwelling. Let one seek another—one who fills—though he be a stranger.
न । सः । सखा॑ । यः । न । ददा॑ति । सख्ये॑ । स॒चा॒ऽभुवे॑ । सच॑मानाय । पि॒त्वः । अप॑ । अ॒स्मा॒त् । प्र । इ॒या॒त् । न । तत् । ओकः॑ । अ॒स्ति॒ । पृ॒णन्त॑म् । अ॒न्यम् । अर॑णम् । चि॒त् । इ॒च्छे॒त् ॥न । सः । सखा । यः । न । ददाति । सख्ये । सचाभुवे । सचमानाय । पित्वः । अप । अस्मात् । प्र । इयात् । न । तत् । ओकः । अस्ति । पृणन्तम् । अन्यम् । अरणम् । चित् । इच्छेत् ॥na | saḥ | sakhā | yaḥ | na | dadāti | sakhye | sacābhuve | sacamānāya | pitvaḥ | apa | asmāt | pra | iyāt | na | tat | okaḥ | asti | pṛṇantam | anyam | araṇam | cit | icchet