Sukta 10.117
स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय । अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥
sá id bhójō yó gṛháve dadā́ty ánna-kāmāya cárate kṛśā́ya | áram asmai bhavati yā́ma-hūtā utā́parīṣu kṛṇute sákhāyam ||
He alone is the true enjoyer who gives in his home to the lean wanderer seeking food. For him the journeys called by need become straight and sufficient; and even in the farthest passages he makes a friend.
सः । इत् । भो॒जः । यः । गृ॒हवे॑ । ददा॑ति । अन्न॑ऽकामाय । चर॑ते । कृ॒शाय॑ । अर॑म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम॑ऽहूतौ । उ॒त । अ॒प॒रीषु॑ । कृ॒णु॒ते॒ । सखा॑यम् ॥सः । इत् । भोजः । यः । गृहवे । ददाति । अन्नकामाय । चरते । कृशाय । अरम् । अस्मै । भवति । यामहूतौ । उत । अपरीषु । कृणुते । सखायम् ॥saḥ | it | bhojaḥ | yaḥ | gṛhave | dadāti | anna-kāmāya | carate | kṛśāya | aram | asmai | bhavati | yāma-hūtau | uta | aparīṣu | kṛṇute | sakhāyam