Sukta 10.117
य आध्राय चकमानाय पित्वोऽन्नवान्त्सन्रफितायोपजग्मुषे । स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥
य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ । स्थि॒रं मन॑: कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि॑न्दते ॥
yá ā́dhrāya cakamānā́ya pitvó’nnavā́nt sán raphitā́yopajágmuṣe | sthiráṃ mánaḥ kṛṇuté sévate puróto cít sá marḍitā́raṃ ná vindate ||
Whoever, though possessing food, hardens his mind against the needy wanderer who comes seeking drink and sustenance—he serves only his own narrow front; even so he does not find a healer, not even later.
यः । आ॒ध्राय॑ । च॒क॒मा॒नाय॑ । पि॒त्वः । अन्न॑ऽवान् । सन् । र॒फि॒ताय॑ । उ॒प॒ऽज॒ग्मुषे॑ । स्थि॒रम् । मनः॑ । कृ॒णु॒ते । सेव॑ते । पु॒रा । उ॒तो इति॑ । चि॒त् । सः । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥यः । आध्राय । चकमानाय । पित्वः । अन्नवान् । सन् । रफिताय । उपजग्मुषे । स्थिरम् । मनः । कृणुते । सेवते । पुरा । उतो इति । चित् । सः । मर्डितारम् । न । विन्दते ॥yaḥ | ādhrāya | cakamānāya | pitvaḥ | anna-vān | san | raphitāya | upa-jagmuṣe | sthiram | manaḥ | kṛṇute | sevate | purā | uto iti | cit | saḥ | marḍitāram | na | vindate