Sukta 10.117
न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥
न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यव॑: । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥
ná vā u devā́ḥ kṣúdhám id vadháṃ dadur utā́śitam úpa gacchanti mṛtyávaḥ | utó ráyiḥ pṛṇató nópa dasyati utā́pṛṇan marḍitā́raṃ ná vindate ||
The gods did not appoint hunger to be a killing; yet deaths come near to the one who is not nourished. But the plenitude (rayi) does not fail the one who fills others; and the one who does not fill finds no healer and no rescuer.
न । वै । ऊँ॒ इति॑ । दे॒वाः । क्षुध॑म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि॑तम् । उप॑ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः॑ । उ॒तो इति॑ । र॒यिः । पृ॒ण॒तः । न । उप॑ । द॒स्य॒ति॒ । उ॒त । अपृ॑णन् । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥न । वै । ऊँ इति । देवाः । क्षुधम् । इत् । वधम् । ददुः । उत । आशितम् । उप । गच्छन्ति । मृत्यवः । उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते ॥na | vai | oṃ iti | devāḥ | kṣudham | it | vadham | daduḥ | uta | āśitam | upa | gacchanti | mṛtyavaḥ | uto iti | rayiḥ | pṛṇataḥ | na | upa | dasyati | uta | apṛṇan | marḍitāram | na | vindate