Sukta 10.116
इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळहृणानो गृभाय । तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च प्रस्थितस्य ॥
इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय । तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥
idáṃ havír maghaván túbhyaṃ rātáṃ práti samrā́ḷ áhṛṇāno gṛbhāya | túbhyaṃ sutó maghaván túbhyaṃ pakvó 'ddhī́ndra píba ca prástitasya ||
This oblation, O Maghavan, is given to you—receive it, O king, without refusal, take it in your grasp. For you the Soma is pressed, O Maghavan; for you it is ripened—eat, O Indra, and drink also of what is set forth, so the embodied offering may become a power of your victory in us.
इ॒दम् । ह॒विः । म॒घ॒ऽव॒न् । तुभ्य॑म् । रा॒तम् । प्रति॑ । सम्ऽरा॑ट् । अहृ॑णानः । गृ॒भा॒य॒ । तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । प॒क्वः॑ । अ॒द्धि । इ॒न्द्र॒ । पिब॑ । च॒ । प्रऽस्थि॑तस्य ॥इदम् । हविः । मघवन् । तुभ्यम् । रातम् । प्रति । सम्राट् । अहृणानः । गृभाय । तुभ्यम् । सुतः । मघवन् । तुभ्यम् । पक्वः । अद्धि । इन्द्र । पिब । च । प्रस्थितस्य ॥idam | haviḥ | magha-van | tubhyam | rātam | prati | sam-rāṭ | ahṛṇānaḥ | gṛbhāya | tubhyam | sutaḥ | magha-van | tubhyam | pakvaḥ | addhi | indra | piba | ca | pra-sth itasya