Sukta 10.116
नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम् । उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥
नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् । उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥
ní tigmā́ni bhrā́śayan bhrā́śyāny áva sthirā́ tanúhi yātu-jū́nām | ugrā́ya te sáho bálaṃ dadāmi pratī́tyā śátrūn vi-gadéṣu vṛśca ||
Casting down the sharp weapons and the flashing powers, lay low the firm-set strengths of the sorcerous attackers. To you, the fierce one, I give force and might; advancing against them, cut down the enemy powers in their knots and entanglements.
नि । ति॒ग्मानि॑ । भ्रा॒शय॑न् । भ्राश्या॑नि । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । उ॒ग्राय॑ । ते॒ । सहः॑ । बल॑म् । द॒दा॒मि॒ । प्र॒ति॒ऽइत्य॑ । शत्रू॑न् । वि॒ऽग॒देषु॑ । वृ॒श्च॒ ॥नि । तिग्मानि । भ्राशयन् । भ्राश्यानि । अव । स्थिरा । तनुहि । यातुजूनाम् । उग्राय । ते । सहः । बलम् । ददामि । प्रतिइत्य । शत्रून् । विगदेषु । वृश्च ॥ni | tigmāni | bhrāśayan | bhrāśyāni | ava | sthirā | tanuhi | yātu-jūnām | ugrāya | te | sahaḥ | balam | dadāmi | prati-itya | śatrūn | vi-gadeṣu | vṛśca