Sukta 10.116
आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः । गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व ॥
आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्ध॑: । गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्व॑: स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥
ā́ dvi-bárhā amíno yā́tv índro vṛ́ṣā háribhyāṃ páriṣiktam ándhaḥ | gavyā́ sutásya prábhṛtasya mádhvaḥ satrā́ khédām aruśa-hā́ vṛṣasva ||
Let Indra, the bull of double greatness, come—unyielding—with his two tawny steeds, to the Soma-joy poured out all around. With the cow-born sweetness of the pressed and offered delight, grow in strength, O slayer of the ruddy (powers of disorder), and overcome all weariness at once.
आ । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । या॒तु॒ । इन्द्रः॑ । वृषा॑ । हरि॑ऽभ्याम् । परि॑ऽसिक्तम् । अन्धः॑ । गवि॑ । आ । सु॒तस्य॑ । प्रऽभृ॑तस्य । मध्वः॑ । स॒त्रा । खेदा॑म् । अ॒रु॒श॒ऽहा । वृ॒ष॒स्व॒ ॥आ । द्विबर्हाः । अमिनः । यातु । इन्द्रः । वृषा । हरिभ्याम् । परिसिक्तम् । अन्धः । गवि । आ । सुतस्य । प्रभृतस्य । मध्वः । सत्रा । खेदाम् । अरुशहा । वृषस्व ॥ā | dvi-barhāḥ | aminaḥ | yātu | indraḥ | vṛṣā | hari-bhyām | pari-siktam | andhaḥ | gavi | ā | sutasya | pra-bhṛtasya | madhvaḥ | satrā | khedām | aruśa-hā | vṛṣasva