Sukta 10.116
ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥
म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु । म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥
mámattu tvā divyáḥ sóma indra mámattu yáḥ sū́yate pārthivéṣu | mámattu yéna várivaś cakártha mámattu yéna nir-iṇā́si śátrūn ||
May the heavenly Soma intoxicate you, O Indra; may that Soma intoxicate you which is pressed among the earthly realms. May that intoxicate you by which you made wide room for us; may that intoxicate you by which you drive out the enemy-forces.
म॒मत्तु॑ । त्वा॒ । दि॒व्यः । सोमः॑ । इ॒न्द्र॒ । म॒मत्तु॑ । यः । सू॒यते॑ । पार्थि॑वेषु । म॒मत्तु॑ । येन॑ । वरि॑ऽवः । च॒कर्थ॑ । म॒मत्तु॑ । येन॑ । नि॒ऽरि॒णासि॑ । शत्रू॑न् ॥ममत्तु । त्वा । दिव्यः । सोमः । इन्द्र । ममत्तु । यः । सूयते । पार्थिवेषु । ममत्तु । येन । वरिवः । चकर्थ । ममत्तु । येन । निरिणासि । शत्रून् ॥mamattu | tvā | divyaḥ | somaḥ | indra | mamattu | yaḥ | sūyate | pārthiveṣu | mamattu | yena | vari-vaḥ | cakartha | mamattu | yena | ni-riṇāsi | śatrūn