Sukta 10.116
अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य । स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥
अ॒स्य पि॑ब क्षु॒मत॒: प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ । स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥
asyá píba kṣumatáḥ prástitasyéndra sómasya váraṃ ā́ sutásya | svastidā́ mánasā mādayasvār-vācī́nó reváte sáubhagāya ||
Drink of this Soma, rich in sap and set forth, O Indra—drink the best portion of the pressed delight. O giver of well-being, with your mind enter the rapture, turning inward toward us for a luminous abundance and a happy fortune of the soul.
अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ । स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥अस्य । पिब । क्षुमतः । प्रस्थितस्य । इन्द्र । सोमस्य । वरम् । आ । सुतस्य । स्वस्तिदाः । मनसा । मादयस्व । अर्वाचीनः । रेवते । सौभगाय ॥asya | piba | kṣu-mataḥ | pra-sthitasya | indra | somasya | varam | ā | sutasya | svasti-dāḥ | manasā | mādayasva | arvācīnaḥ | revate | saubhagāya