Sukta 10.114
सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् । सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥
स॒ह॒स्र॒धा प॑ञ्चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् । स॒ह॒स्र॒धा म॑हि॒मान॑: स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥
sahasradhā́ pañcadaśā́ny ukthā́ yā́vad dyā́vāpṛthivī́ tā́vad íttát | sahasradhā́ mahimā́naḥ sahásraṃ yā́vad bráhma víṣṭhitaṃ tā́vatī vāk ||
In a thousand ways are the fifteen hymns of affirmation, as wide as Heaven-and-Earth—so wide indeed is That. In a thousand ways are its greatnesses, a thousandfold; as far as the Brahman is established, so far extends the Word.
स॒ह॒स्र॒धा । प॒ञ्च॒ऽद॒शानि॑ । उ॒क्था । याव॑त् । द्यावा॑पृथि॒वी इति॑ । ताव॑त् । इत् । तत् । स॒ह॒स्र॒धा । म॒हि॒मानः॑ । स॒हस्र॑म् । याव॑त् । ब्रह्म॑ । विऽस्थि॑तम् । ताव॑ती । वाक् ॥सहस्रधा । पञ्चदशानि । उक्था । यावत् । द्यावापृथिवी इति । तावत् । इत् । तत् । सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विस्थितम् । तावती । वाक् ॥sahasradhā | pañca-daśāni | ukthā | yāvat | dyāvāpṛthivī iti | tāvat | it | tat | sahasradhā | mahimānaḥ | sahasram | yāvat | brahma | vi--sthitam | tāvatī | vāk