Sukta 10.114
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य ॥
चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त । आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥
catúrdaśā́nye mahimā́no asya táṃ dhī́rā vācā́ prá ṇayanti saptá | ā́pnānaṃ tī́rthaṃ ká ihá prá vocad yéna pathā́ prá-pibante sutásya ||
Fourteen are the further greatnesses of this (mystery); by the Word the steadfast seers lead it forward as seven. Who here will declare the reaching ford, the path by which they drink deeply of the pressed Soma?
चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त । आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥चतुःदश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त । आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रपिबन्ते । सुतस्य ॥catuḥ-daśa | anye | mahimānaḥ | asya | tam | dhīrāḥ | vācā | pra | nayanti | sapta | āpnānam | tīrtham | kaḥ | iha | pra | vocat | yena | pathā | pra-pibante | sutasya