Sukta 10.114
षट्त्रिंशाँश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् । यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥
ष॒ट्त्रिं॒शाँश्च॑ च॒तुर॑: क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् । य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥
ṣaṭtriṃśā́ṃś ca catúraḥ kalpáyantaś chándāṃsi ca dádhata ādvādáśam | yajñáṃ vimā́ya kaváyo manīṣā́ ṛ́ksāmā́bhyāṃ prá ráthaṃ vartayanti ||
They arrange the thirty-six and the four, and they set the metres in their places, establishing the twelvefold order. Measuring out the sacrifice, the seers by their luminous understanding set the chariot of the work moving forward by the powers of Ṛk and Sāman.
ष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् । य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥षट्त्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आद्वादशम् । यज्ञम् । विमाय । कवयः । मनीषा । ऋक्सामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥ṣaṭ-triṃśān | ca | caturaḥ | kalpayantaḥ | chandāṃsi | ca | dadhataḥ | ādvādaśam | yajñam | vi-māya | kavayaḥ | manīṣā | ṛk-sāmābhyām | pra | ratham | vartayanti