Sukta 10.114
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ॥
सु॒प॒र्णं विप्रा॑: क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति । छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥
suparṇáṃ viprā́ḥ kaváyo vácobhir ékaṃ sántam bahudhā́ kalpayanti | chándāṃsi ca dádhato adhvaréṣu grahā́nt sómasya mimate dvā́daśa ||
The inspired seers, the poets, by their words shape the fair-winged One—though one in being—into many forms. Setting the metres in the sacrifice, they measure out the twelve Soma-cups.
सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ । छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥सुपर्णम् । विप्रा । कवयः । वचःभिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति । छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥su-parṇam | viprā | kavayaḥ | vacaḥ-bhiḥ | ekam | santam | bahudhā | kalpayanti | chandāṃsi | ca | dadhataḥ | adhvareṣu | grahān | somasya | mimate | dvādaśa