Sukta 10.114
एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥
एक॑: सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥
ékaḥ suparṇáḥ sá samudrám ā́ viveśa sá idáṃ víśvaṃ bhúvanaṃ ví caṣṭe | táṃ pā́kena mánasāpaśyam ántitas táṃ mātā́ reḷhi sá u reḷhi mātáram ||
One is the fair-winged; he has entered the ocean; he beholds this whole world and all becoming. Him I saw from near with a ripened mind; the Mother cherishes him, and he too cherishes the Mother.
एकः॑ । सु॒ऽप॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । च॒ष्टे॒ । तम् । पाके॑न । मन॑सा । अ॒प॒श्य॒म् । अन्ति॑तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊँ॒ इति॑ । रे॒ळ्हि॒ । मा॒तर॑म् ॥एकः । सुपर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे । तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊँ इति । रेळ्हि । मातरम् ॥ekaḥ | su-parṇaḥ | saḥ | samudram | ā | viveśa | saḥ | idam | viśvam | bhuvanam | vi | caṣṭe | tam | pākena | manasā | apaśyam | antitaḥ | tam | mātā | reḷhi | saḥ | oṃ iti | reḷhi | mātaram