Sukta 10.114
तिस्रो देष्ट्राय निॠतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥
ति॒स्रो दे॒ष्ट्राय॒ निॠ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
tisró deṣṭrā́ya nírṛtīr upā́sate dīrgháśruto ví hí jānanti váhnayaḥ | tāsā́ṃ ní cikyuḥ kaváyo nidā́naṃ paréṣu yā́ guhýeṣu vratéṣu ||
Three Nirr̥tis attend upon the Ordainer; the far-hearing bearers of the flame know them well. The seers have discerned their foundation—those that are in the beyond, in the hidden laws.
ति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः । तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥तिस्रः । देष्ट्राय । निःऋतीः । उप । आसते । दीर्घश्रुतः । वि । हि । जानन्ति । वह्नयः । तासाम् । नि । चिक्युः । कवयः । निदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥tisraḥ | deṣṭrāya | niḥ-ṛtīḥ | upa | āsate | dīrgha-śrutaḥ | vi | hi | jānanti | vahnayaḥ | tāsām | ni | cikyuḥ | kavayaḥ | ni-dānam | pareṣu | yāḥ | guhyeṣu | vrateṣu