Sukta 10.114
घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम । दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥
घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥
gharmā́ samantā́ tri-vṛ́taṃ vyā́patus táyor júṣṭiṃ mātáriśvā jagāma | divás páyo dídhiṣāṇā aveṣan vidúr devā́ḥ sahásā mā́nam arkám ||
The two warm vessels spread out on every side the triple-enclosure; to their accepted delight Mātariśvan came. Desiring the milk of heaven, they sought it out; the gods knew the chant that is measured by strength, the flaming hymn.
घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ । दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥घर्मा । सम्अन्ता । त्रिवृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम । दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहसामानम् । अर्कम् ॥gharmā | sam-antā | tri-vṛtam | vi | āpatuḥ | tayoḥ | juṣṭim | mātariśvā | jagāma | di vaḥ | payaḥ | didhiṣāṇāḥ | aveṣan | viduḥ | devāḥ | saha-sāmānam | arkam