Sukta 10.113
विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्त्सोमवत्या वचस्यया । रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् ॥
विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ । र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥
viśve devāso adha vṛṣṇyāni te ’vardhayan soma-vatyā vacasyayā́ | raddháṃ vṛtrám ahím indrasya hánmanāgnír na jámbhais tṛṣv ánnam āvayat ||
Then all the gods increased thy virile powers by the Soma-laden word of affirmation. The obstructing serpent Vṛtra, checked and bound, was by Indra’s slaying force as if chewed up by Agni’s jaws—so the nourishment was won for the thirsting powers.
विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ । र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥विश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोमवत्या । वचस्यया । रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत् ॥viśve | devāsaḥ | adha | vṛṣṇyāni | te | avardhayan | soma-vatyā | vacasyayā | raddham | vṛtram | ahim | indrasya | hanmanā | agniḥ | na | jambhaiḥ | tṛṣu | annam | āvayat