Sukta 10.113
या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः । ध्वान्तं तमोऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूतावपत्यत ॥
या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतु॑: । ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥
yā́ vīryā́ṇi prathamā́ni kártvā mahitvébhir yátamānau samī́yatuḥ | dhvā́ntaṃ támo ’vá dadhvase hatá índro mahnā́ pū́rvahūtāv apatyata ||
Those first heroic deeds having been done, striving with their greatness they came together; the gloom, the darkness, was cast down for the one pressed by it—Indra, by his vast might, rushed forth as the anciently invoked power.
या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ । ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒तः । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥या । वीर्याणि । प्रथमानि । कर्त्वा । महित्वेभिः । यतमानौ । सम्ईयतुः । ध्वान्तम् । तमः । अव । दध्वसे । हतः । इन्द्रः । मह्ना । पूर्वहूतौ । अपत्यत ॥yā | vīryāṇi | prathamāni | kartvā | mahi-tvebhiḥ | yatamānau | sam-īyatuḥ | dhvāntam | tamaḥ | ava | dadhvase | hataḥ | indraḥ | mahnā | pūrva-hūtau | apatyata