Sukta 10.113
इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतम् ॥
इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ । वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥
indrasyā́tra taviṣībhyo vi-rapśina ṛghāyato araṃhayanta manyáve | vṛtráṃ yad ugró vyàvṛścad ójasā́po bíbhrataṃ támasā párīvṛtam ||
Here, from Indra’s driving intensities, the wide-workers hastened the impetuous energies for his wrath of battle; when the fierce one with his might cut apart Vṛtra who held the waters, wrapped all around with darkness.
इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥इन्द्रस्य । अत्र । तविषीभ्यः । विरप्शिनः । ऋघायतः । अरंहयन्त । मन्यवे । वृत्रम् । यत् । उग्रः । वि । अवृश्चत् । ओजसा । अपः । बिभ्रतम् । तमसा । परिवृतम् ॥indrasya | atra | taviṣībhyaḥ | vi-rapśinaḥ | ṛghāyataḥ | araṃhayanta | manyave | vṛtram | yat | ugraḥ | vi | avṛścat | ojasā | apaḥ | bibhratam | tamasā | pari-vṛtam