Sukta 10.113
जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् । अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥
ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒: प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑: सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥
jajñānó evá vyabādhata spṛ́dhaḥ prápaśyad vīró abhí paúṃsyaṃ ráṇam | ávṛścad ádrim áva sa-syádaḥ sṛ́jad ástabhnān nā́kaṃ svapasyáyā pṛthúm ||
Born in his might he at once drove away the rivalries; the hero looked forth upon the manly battle. He cut the Stone; he let flow the held-back streams; he upheld the wide heaven by his perfect work.
ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् । अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥जज्ञानः । एव । वि । अबाधत । स्पृधः । प्र । अपश्यत् । वीरः । अभि । पौंस्यम् । रणम् । अवृश्चत् । अद्रिम् । अव । सस्यदः । सृजत् । अस्तभ्नात् । नाकम् । सुअपस्यया । पृथुम् ॥jajñānaḥ | eva | vi | abādhata | spṛdhaḥ | pra | apaśyat | vīraḥ | abhi | paiṃsyam | raṇam | avṛścat | adrim | ava | sa-syadaḥ | sṛjat | astabhnāt | nākam | su-apasyayā | pṛthum