Sukta 10.113
वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे । विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥
वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ । विश्वे॑ ते॒ अत्र॑ म॒रुत॑: स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥
vṛtréṇa yád áhinā bibhrád ā́yudhā samásthithā yudháye śáṃsam ā́vide | víśve te átra marútaḥ sáha tmanā́vardhann ugra mahimā́nam indriyám ||
When with Vritra, with the Serpent, bearing thy weapons, thou didst take thy stand for battle to win the acclaim—then here all thy Maruts together by their own self-force increased, O strong one, thy lordly greatness.
वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥वृत्रेण । यत् । अहिना । बिभ्रत् । आयुधा । सम्अस्थिथाः । युधये । शंसम् । आविदे । विश्वे । ते । अत्र । मरुतः । सह । त्मना । अवर्धन् । उग्र । महिमानम् । इन्द्रियम् ॥vṛtreṇa | yat | ahinā | bibhrat | āyudhā | sam-asthithāḥ | yudhaye | śaṃsam | āvide | viśve | te | atra | marutaḥ | saha | tmanā | avardhan | ugra | mahimānam | indriyam